|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.10. अध्यायः 010
Mahabharata - Virata Parva - Chapter Topics
भीमेन सूदवेषपरिग्रहेण विराटसभाप्रवेशः ॥ 1 ॥ विराटेन भीमस्य पाकाधिकारे नियोजनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच । 4-10-0x(3020)(28569)
अथापरस्यां दिशि भीमदर्शनो वृकोदरोऽदृश्यत सिंहविक्रमः।
असिप्रवेके प्रतिमुच्य शाणिते खजां च दर्वी च करेण धारयन् ॥ 1 ॥ 4-10-1(28570)
त्वचं च गोचर्ममयीं सुमर्दितां समुक्षितां पानकरागषाडवैः ।
किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् ॥ 2 ॥ 4-10-2(28571)
गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रकाशयन्।
स कृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान् ॥ 3 ॥ 4-10-3(28572)
सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन्।
सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः ॥ 4 ॥ 4-10-4(28573)
तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम्।
भयात्समुद्विग्नविपण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत् ॥ 5 ॥ 4-10-5(28574)
तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम्।
समीक्ष्य वैक्लब्यमुपेयिवाञ्शनैर्जनाश्च भीताः परिसर्पिरे भृशम् ॥ 6 ॥ 4-10-6(28575)
अथाब्रवीन्मात्स्यपतिः सभागतान् भृशातुरोष्णं परिनिश्वसन्निव ।
कोऽयं युवा वारणराजसन्निभः सभामभिप्रैति हि मामिकामिमाम् ॥ 7 ॥ 4-10-7(28576)
को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतिं हि मामकः।
व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते ॥ 8 ॥ 4-10-8(28577)
राजश्रिया ह्येष विभाति राजवद्विरोचते रुक्मगिरिप्रभोपमः।
नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ ॥ 9 ॥ 4-10-9(28578)
रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शत्रः इवाभिपालयेत्।
नाभूमिपोऽयं हि रतिर्ममेति च च्युतः समृद्ध्या नभसीव नाहुषः ॥ 10 ॥ 4-10-10(28579)
वैशम्पायन उवाच। 4-10-11x(3021)
वितर्कमाणस्य च तस्य पाण्डवः सभामतिक्रम्य वृकोदरोऽब्रवीत्।
जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम् ॥ 11 ॥ 4-10-11(28580)
ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम्।
त्वां जीवितुं शत्रुहन्नागतोऽहं त्वमेव लोके परमो हि संश्रयः ॥ 12 ॥ 4-10-12(28581)
नरेन्द्र शूद्रोस्मि चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत्।
जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान् ।
रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत् ॥ 13 ॥ 4-10-13(28582)
वैशम्पायन उवाच । 4-10-14x(3022)
तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत्।
न शूद्रतां कांचन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ ॥ 14 ॥ 4-10-14(28583)
हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे ।
न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम ॥ 15 ॥ 4-10-15(28584)
अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः।
न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि ॥ 16 ॥ 4-10-16(28585)
भीम उवाच । 4-10-17x(3023)
चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम्।
जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः ॥ 17 ॥ 4-10-17(28586)
युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः।
अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् ॥ 18 ॥ 4-10-18(28587)
त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् ।
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव ॥ 19 ॥ 4-10-19(28588)
गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम्।
न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति ॥ 20 ॥ 4-10-20(28589)
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि।
ये सन्ति मल्ला बलवीर्यसंमतास्तानेव योत्स्यामि तवाभिहर्पयन् ॥ 21 ॥ 4-10-21(28590)
वैशम्पायन उवाच। 4-10-22x(3024)
तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत्।
सोहं न मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि ॥ 22 ॥ 4-10-22(28591)
त्रिलोकपालो हि यथा विराजसे तथाऽद्य मे विष्णुरिवातिरोचसे।
यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः ।
नराश्च मे तत्र मया सदाऽर्चिता भवाद्य तेषामधिपो मया कृतः ॥ 23 ॥ 4-10-23(28592)
तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः।
उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन ॥ 24 ॥ ॥ 4-10-24(28593)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि दशमोऽध्यायः ॥ 10 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|